उपनिषदध्ययने द्वितीयः (२) सोपानः । – आरुणिकोपनिषत्

उपनिषदध्ययने द्वितीयः (२) सोपानः ।
(१) आरुणिकोपनिषत्

To commence the study of UpaniShads, I would like to start with आरुणिकोपनिषत्
This is possibly the shortest उपनिषत् since it has only a single paragraph !
Also, it is more prose, though the prose also has a rhythm.
The text of the आरुणिकोपनिषत् is –

संन्यासविधिः ।
गृहस्थो ब्रह्मचारी वानप्रस्थो वा लौकिकाग्नीन् उदराग्नौ समारोपयेत् ।
गायत्रीं च स्ववाचाग्नौ समारोपयेत् ।
अत ऊर्ध्वं अमन्त्रवद् आचरेत् ।
संधिं समाधौ आत्मनि आचरेत् ।
सर्वेषु वेदेषु आरण्यकं आवर्तयेत् ।
उपनिषदं आवर्तयेत् ।
औषधवत् अशनमाचरेत् । औषधवत् अशनमाचरेत् ।।
ब्रह्मचर्यं अहिंसां च अपरिग्रहं च सत्यं च –
यत्नेन हे रक्षतो ३
हे रक्षतो ३
हे रक्षत इति ।।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

संन्यास-विधिः ।
गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा लौकिक-अग्नीन् उदर-अग्नौ समारोपयेत् ।
गायत्रीम् च स्ववाचा-अग्नौ समारोपयेत् ।
अत: ऊर्ध्वं अ-मन्त्रवत् आचरेत् ।
संधिं समाधौ आत्मनि आचरेत् ।
सर्वेषु वेदेषु आरण्यकम् आवर्तयेत् ।
उपनिषदम् आवर्तयेत् ।
औषधवत् अशनम् आचरेत् । औषधवत् अशनम् आचरेत्  ।।
ब्रह्मचर्यम्  अहिंसाम् च अपरिग्रहम् च सत्यम् च –
यत्नेन हे रक्षतः ३
हे रक्षत: ३
हे रक्षत (अथवा) हे रक्षतः
इति ।।

अत्र सन्धयः –
Following संधि-s were possible. But the text I got from अष्टादशी by आचार्य विनोबाजी does not mention these संधि-s
लौकिकाग्नीन्नुदराग्नौ = लौकिक-अग्नीन् उदर-अग्नौ
गायत्रीञ्च = गायत्रीम् च
ऊर्ध्वममन्त्रवदाचरेत्  = ऊर्ध्वं अमन्त्रवत् आचरेत्
आत्मन्याचरेत् = आत्मनि आचरेत्
वेदेष्वारण्यकमावर्तयेत्  = वेदेषु आरण्यकं आवर्तयेत्
उपनिषदमावर्तयेत् = उपनिषदम् आवर्तयेत्
औषधवदशनमाचरेत् = औषधवत् अशनम् आचरेत्
ब्रह्मचर्यमहिंसाञ्चापरिग्रहञ्च = ब्रह्मचर्यम्  अहिंसाम् च अपरिग्रहम् च
सत्यञ्च = सत्यम् च

A few संधि-s which are there in the text above are –

  1. गृहस्थो ब्रह्मचारी = गृहस्थ: ब्रह्मचारी (विसर्ग-संधिः)
  2. वानप्रस्थो वा = वानप्रस्थ: वा (विसर्ग-संधिः)
  3. अत ऊर्ध्वम् =  अत: ऊर्ध्वम् (विसर्ग-संधिः)
  4. रक्षतो यत्नेन = रक्षतः यत्नेन (विसर्ग-संधिः)
  5. रक्षतो हे = रक्षत: हे (विसर्ग-संधिः)
  6. रक्षत इति = रक्षत: इति (विसर्ग-संधिः)

 

Exercise 2 Paraphrase the clauses, Detail the analyses of clauses 

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु

  1. संन्यास-विधिः (कथ्यते)
  2. गृहस्थ:ब्रह्मचारी वानप्रस्थ: वा लौकिकाग्नीन् उदराग्नौ समारोपयेत् ।
  3. गायत्रीम् च स्ववाचाग्नौ समारोपयेत् ।
  4. अत: ऊर्ध्वं अमन्त्रवत् आचरेत् ।
  5. संधिं समाधौ आत्मनि आचरेत् ।
  6. सर्वेषु वेदेषु आरण्यकम् आवर्तयेत् ।
  7. उपनिषदम् आवर्तयेत् ।
  8. औषधवत् अशनम् आचरेत् । औषधवत् अशनम् आचरेत्  ।।
  9. हे (तौ) ब्रह्मचर्यम्  अहिंसाम् च अपरिग्रहम् च सत्यम् च यत्नेन रक्षतः ।
  10. हे (तौ) रक्षत: ।
  11. हे (यूयं) रक्षत ।
  12. इति ।
वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
संन्यास-विधिः (कथ्यते) प्रधान:
गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा लौकिकाग्नीन् उदराग्नौ समारोपयेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) गायत्रीम् स्ववाचाग्नौ समारोपयेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) अत ऊर्ध्वं अमन्त्रवद् आचरेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) संधिं समाधौ आचरेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) आरण्यकम् सर्वेषु वेदेषु आवर्तयेत्
(गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) उपनिषदं आवर्तयेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) अशनम् औषधवत् आचरेत् प्रधान:
हे (तौ) ब्रह्मचर्यं अहिंसां च अपरिग्रहं च सत्यं च यत्नेन रक्षत: प्रधान:
 १० हे (तौ) रक्षत: प्रधान:
११ हे (यूयं) रक्षत प्रधान:
१२ इति प्रधान:


Exercise 3 Decipher the compound words, and detail grammatical analysis of all words 

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

१ आरुणिकोपनिषत् इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १-१ आरुणिका उपनिषत् इति आरुणिकोपनिषत् । कर्मधारयः ।
  • १-२ आरुणिका इति तद्धितं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • १-२-१ आरुणिना कृता इति आरुणिका = composed by आरुणि
    • १-२-२ आरुणिना “आरुणि” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
      • १-२-२-१ अरुणस्य अयम् (पुत्रः) इति आरुणिः = son of अरुण
      • १-२-२-२ अरुणस्य “अरुण” (= charioteer of sun) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १-३ उपनिषत् “उप + नि + सद्” १ वा ६ प (= to sit near for study) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “उपनिषत्” (= sacred text to be learnt at the feet of a Guru) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२ संन्यासविधिः संन्यासविधि” इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • २-१ संन्यासस्य विधिः इति संन्यासविधि: । षष्ठी-तत्पुरुषः ।
  • २-२ संन्यासस्य “सम् + नि + अस्” २ प (= to put down, to renounce) इति धातुः । तस्मात् पुल्लिङ्गि नाम “संन्यास” (= renunciation) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २-३ विधिः “विधि” (= method, practice) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २-४ संन्यासविधिः = Method of renunciation

३ गृहस्थ:गृहस्थ” इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१ गृहे तिष्ठति इति गृहस्थः । उपपद-तत्पुरुषः ।
  • ३-२ गृहे “गृह” (= house) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ३-३ तिष्ठति “स्था” १ प (= to stand, to stay, to live in) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
  • ३-४ गृहस्थ: = One who lives in a house, a family man

४ ब्रह्मचारी “ब्रह्मचारिन्” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ४-१ ब्रह्मा इव चरति अथवा ब्रह्मणः इव आचारः अस्य अस्ति इति ब्रह्मचारी ।
  • ४-२ ब्रह्मा “ब्रह्मन्” (= creator of Universe) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ४-३ आचारः “आ + चर्” १ प (= to conduct oneself) इति धातुः । तस्मात् पुल्लिङ्गि नाम “आचार” (= conduct) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ४-४ ब्रह्मचारी = celibate, one whose conduct is similar to that of Brahman

५ वानप्रस्थ: “वानप्रस्थ” इति विशेषणम् । प्रायः पुल्लिङ्गि । तस्य प्रथमा  विभक्तिः एकवचनम् च ।

  • ५-१ वने प्रकर्षेण तिष्ठति इति वानप्रस्थ: ।
  • ५-२ वने “वन” (= jungle) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ५-३ प्रकर्षेण “प्र + कृष्” १ प ६ उ (= to be in prominence) इति धातुः । तस्मात् पुल्लिङ्गि नाम “प्रकर्ष” (= prominence) । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ५-४ वानप्रस्थ: = One who lives in jungle

६ वा (= or) इति अव्ययम् ।
७ लौकिकाग्नीन् “लौकिकाग्नि” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • ७-१ लौकिकः अग्निः इति लौकिकाग्निः । कर्मधारयः ।
  • ७-२ लौकिकः “लौकिक” इति तद्धितं विशेषणम् । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ७-२-१ लोके अस्ति इति लौकिकम् ।
    • ७-२-२ लोके “लोक” (= people, populace) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • ७-२-३ लौकिकः = what is found among people, what is experienced by people
  • ७-३ अग्निः “अग्नि” (= fire) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • ७-४ लौकिकाग्निः = fire experienced by people, fires manifest in the world

८ उदराग्नौ “उदराग्नि” इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ८-१ उदरे अग्निः इति उदराग्निः । सप्तमी-तत्पुरुषः । अथवा
    • 8-1-1 उदरस्य अग्निः इति उदराग्निः । षष्ठी-तत्पुरुषः ।
  • ८-२ उदरे “उदर” (= stomach) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ८-३ उदराग्निः = fire residing in stomach

९ समारोपयेत् “सम् + आ + रुह्” १ प (= to reside in, to instate) इति धातुः । तस्य “रोपय्”-प्रयोजकस्य (= to make reside in) विध्यर्थे प्रथमपुरुषे एकवचनम् ।
१० गायत्रीम् “गायत्री” (= famous chant) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १०-१ गेया च त्रायते च इति गायत्री = what is sung (or chanted) and what has the power to protect
  • १०-२ गेया “गै” १ प (= to sing) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “गेय” (= what is worth singing) । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १०-३ त्रायते “त्रै” १ आ (= to protect) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

११ च (= and) इति अव्ययम् ।
१२ स्ववाचाग्नौ “स्ववाचाग्नि” इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • १२-१ स्वस्य वाचा इति स्ववाचा । षष्ठी-तत्पुरुषः ।
  • १२-२ स्ववाचा एव अग्निः स्ववाचाग्निः । कर्मधारयः ।
  • १२-३ स्वस्य “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १२-४ वाचा (= speech) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२-५ स्ववाचाग्निः = fire of one’s speech

१३ अत (= hence, hereafter) इति अव्ययम् ।
१४ ऊर्ध्वम् (= above) इति अव्ययम् ।
१५ अमन्त्रवत् इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च । अत्र क्रियाविशेषणात्मकम् ।

  • १५-१ न मन्त्रवत् इति अमन्त्रवत् । नञ्-तत्पुरुषः ।
  • १५-२ मन्त्रवत् (= मन्त्र + वत्) इति तद्धितं विशेषणम् ।
  • १५-३ मन्त्र: (= मन् + त्र = मननीयः त्रायते च = what is worthy of deliberating and assimilating and what can protect) “मन्त्र” इति तद्धितं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १५-४ मननीयः “मन्” ४, ८ आ (= to keep in mind, to deliberate upon) इति धातुः । तस्मात् “अनीय”-प्रत्ययेन विशेषणम् “मननीय” (= what is worthy of deliberating and assimilating) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १५-५ अमन्त्रवत् = without any thought

१६ आचरेत् “आ + चर्” १ प (= to conduct oneself) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
१७ संधिम् “सम् + धि” ६ प (= to join, to put together) इति धातुः । तस्मात् पुल्लिङ्गि नाम “संधि” (= joining, putting together) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१८ समाधौ “सम् + आ + धि” ६ प (= to be in state of equanimity) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “समाधि” (= state of equanimity) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
१९ आत्मनि “आत्मन्” (= self) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२० सर्वेषु “सर्व” (= all, all together) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
२१ वेदेषु “वेद” (= the sacred text) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
२२ आरण्यकम् “आरण्यक” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २२-१ अरण्ये यथा भवति तथा इति आरण्यकम् ।
  • २२-२ अरण्ये “अरण्य” (= jungle) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • २२-३ आरण्यकम् = It is one of a class of religious and philosophical writings (Connected with the ब्राह्मण-s), which are either composed in a forest or must be studied and/or practised there. अरण्येऽध्ययनादेव आरण्यकमुदाहृतम्

२३ आवर्तयेत् “आ + वृत्” १ आ (= to enact repetitively) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
२४ उपनिषदम् “उप + नि + सद्” १ वा ६ प (= to sit near for study) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “उपनिषत्” (= sacred text to be learnt at the feet of a Guru) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२५ औषधवत् (= औषध + वत्) इति तद्धितं विशेषणम् । अत्र क्रियाविशेषणात्मकम् ।

  • २५-१ औषधवत् = यथा औषधं तथा = यथा औषधस्य मात्रा तथावदेव = In the same measure as of a medicament
  • २५-२ औषधम् “औषध” (= medicament) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२६ अशनम् “अश्” ५ आ (= to eat, to consume) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “अशन” (= eating, consumption) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२७ ब्रह्मचर्यम् “ब्रह्मचर्य” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २७-१ यथा ब्रह्मणा चर्यते तथा आचारः ब्रह्मचर्यम् = Conduct as is exemplified by Brahma

२८ अहिंसाम् “अहिंसा” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २८-१ न हिंसा इति अहिंसा । नञ्-तत्पुरुषः ।
  • २८-२ हिंसा “हिंस्” ७ प १० उ (= to hurt) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “हिंसा” (= hurt) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २८-३ अहिंसा = non-violence

२९ अपरिग्रहम् “अपरिग्रह” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २९-१ न परिग्रहः इति अपरिग्रहः । नञ्-तत्पुरुषः ।
  • २९-२ परिग्रहः “परि + गृह्” ९ उ (= to get involved) इति धातुः । तस्मात् पुल्लिङ्गि नाम “परिग्रह” (= involvement, engulfment) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २९-३ अपरिग्रहः = non-involvement

३० सत्यम् “सत्य” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३०-१ सत्य “अस्” २ प (= to be, to exist) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “सत्य” (= truth) ।

३१ यत्नेन “यत्” १ आ (= to try, to strive for) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “यत्न” (= effort) । तस्य तृतीया विभक्तिः एकवचनम् च ।
३२ हे (= hey) इति अव्ययम् ।
३३ रक्षतः “रक्ष्” १ प (= to protect, to preserve) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे द्विवचनम् ।
३४ रक्षत “रक्ष्” १ प (= to protect, to preserve) इति धातुः । तस्य आज्ञार्थे मध्यम- (द्वितीय-) पुरुषे बहुवचनम् ।
३५ इति (= thus ends, here ends) अव्ययम् ।

Exercise 4 Give Translation / Overall meaning
स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।

  1. संन्यास-विधिः (कथ्यते) = (Here is narrated) Method of practising renunciation
  2. गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा लौकिकाग्नीन् उदराग्नौ समारोपयेत् = A person, whether a family man, or a celibate or one who has resorted to the jungles should absorb into one’s stomach all fires manifest in the world
  3. (गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) गायत्रीं च स्ववाचाग्नौ समारोपयेत् = A person (whether a family man, or a celibate or one who has resorted to the jungles) should pervade the fire of one’s expressions with the sacred mantra, the Gayatri
  4. अत ऊर्ध्वं (गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) अमन्त्रवद् आचरेत् = And thereafter a person (whether a family man, or a celibate or one who has resorted to the jungles) should be without any thought
  5. (गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) आत्मनि समाधौ संधिं आचरेत् = (A person whether a family man, or a celibate or one who has resorted to the jungles) should exemplify union (with God) in one’s state of equanimity
  6. (गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) सर्वेषु वेदेषु आरण्यकं आवर्तयेत् = (A person whether a family man, or a celibate or one who has resorted to the jungles) should practice from among all Veda-s abide (primarily) by (the diktats of) portions (composed in jungles or) relating to life in jungles
  7. (गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) उपनिषदं आवर्तयेत् = (A person whether a family man, or a celibate or one who has resorted to the jungles) should practice the (preachings of) Upanishads.
  8. (गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा) औषधवत् अशनम् आचरेत् = (A person whether a family man, or a celibate or one who has resorted to the jungles) should eat food as one takes a medicament.
  9. हे (युवां) ब्रह्मचर्यं अहिंसां च अपरिग्रहं च सत्यं च यत्नेन रक्षतः = Hey the two of you preserve with efforts (with intent and determination) celibacy, non-violence, no adulteration and truth
  10. हे (यूयं) रक्षत = Hey, you (all) preserve (these)
  11. इति = Here ends (or concludes)

Exercise 5 Comments, Notes, Observations, if any.

स्वाध्यायः ५ टिप्पणयः ।

५-१ Curiosity arises as to why this उपनिषत् is called as आरुणिकोपनिषत् I started analysis of words in Exercise 3, स्वाध्यायः ३ with the analysis of this word itself. However I am not sure whether that does bring out the logic of why आरुणिकोपनिषत् is the title of this उपनिषत् 

  • The part आरुणिक brings to mind the name of a disciple आरुणी who was an ardent student of ऋषि धौम्य I wonder whether this उपनिषत् was composed by आरुणी and hence has his name with it.
    • Briefly the story is like this. The आश्रम of ऋषि धौम्य was near a river. To protect the farm lands from being damaged by river floods, bundings had been made. Once it rained heavily. The bundings were yielding. ऋषि धौम्य showed his students how to reinforce the bundings and asked the students to work at all places where bunding was giving way. By evening most of the ob was done and students returned to the hutments. But आरुणी was nowhere to be seen. ऋषि धौम्य and students went back to the fields. They saw आरुणी lying across a bunding where he could not stop the flow of water, since the flow of the river was quite strong. ऋषि धौम्य was overwhelmed by आरुणी’s dedication in obeying the instructions, putting even his life at stake.
  • One finds mention of आरुणि also in verse # 11 in कठोपनिषत् – “यथा पुरस्तात् भविता प्रतीतः औद्दालकिरारुणिर्मत्प्रसृष्टः । सुखं रात्रीः शयिता वीतमन्युः त्वाम् ददृशिवान् मृत्युमुखात् प्रमुक्तम् ।।” We shall of course study this when we shall study कठोपनिषत्

५-२ Towards the closing of the उपनिषत्

  • the phrase औषधवत् अशनम् आचरेत् is repeated twice.
  • Then there are phrases with the number “३” noted there. “…. यत्नेन हे रक्षतो ३ हे रक्षतो ३ हे रक्षत इति” Number ३ means that the particular phrases are to be repeated three times each. Hence the reading is to be “… यत्नेन हे रक्षतो, यत्नेन हे रक्षतो, यत्नेन हे रक्षतो । हे रक्षतो, हे रक्षतो, हे रक्षतो । हे रक्षत इति ।।
  • Isn’t that a simple way of concluding the closing lines gradually and making a lasting impression on the mind ?
  • Even in classical vocal music, it is almost a rule that a rendering should close with repetition of the closing line thrice. This convention gives a clear indication to the audience, when a rendering is closing.

५-३ Apart from the name of the उपनिषत् containing, most probably, the name of the Rishi as आरुणिकोपनिषत् the first mantra संन्यास-विधिः declares the subject or theme of the उपनिषत् to be method of renunciation. Interestingly this उपनिषत् seems to advocate renunciation to everyone, in whichever stage of life. In Hindu way of life, it is advocated that life be lived in four stages – (1) learning ब्रह्मचर्यम्, (2) family life गृहस्थ (3) life in the wilderness वानप्रस्थ and (4) renunciation संन्यास. Each of these stages is called as आश्रम So the four stages become ब्रह्मचर्याश्रम, गृहस्थाश्रम, वानप्रस्थाश्रम and संन्यासाश्रम . However this उपनिषत् seems to recognize only three आश्रम-s and संन्यास to be the way वृत्ति in any, rather, in all the three आश्रम-s.

  • Acharya Vinobaji has however given the interpretation as – On adopting संन्यासाश्रम i.e. on becoming a संन्यासी one should offer into the fire in the stomach, all fires from the altar outside.

५-४ To study and understand this उपनिषत् minutely, we need to deliberate on each and every sentence and maybe, on each and every word. What is detailed in (५-३) is some comment establishing connectivity between the title संन्यास-विधिः and the phrase गृहस्थ: ब्रह्मचारी वानप्रस्थ: वा Next we should deliberate on लौकिकाग्नीन् उदराग्नौ समारोपयेत्

  • Here the word लौकिकाग्नीन् is in plural. That brings to mind a verse in कठोपनिषत् which says अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ।। How beautifully it brings out that fire is seen in so many forms. Small spark at the tip of a slender incense stick is fire and fire engulfing a whole jungle is also fire ! However what is implied here by the word लौकिकाग्नीन् is possibly fires of desires ! And desires are so many ! That may be why the word is in plural !
  • In advising लौकिकाग्नीन् उदराग्नौ समारोपयेत् what the Rishi AaruNee is advising is to reduce fires of all desires into fire of hunger which then relates to only as much desire as can be accommodated in one’s stomach. Desires are mental. Flight of mind has no limit. What can be accommodated in one’s stomach has limit. This limit can be further reduced by practising fasting and penance !
  • Limiting and control of desires is then the first step to cultivating our minds to renunciation. Such control of desires is possible and should be practised by anybody, regardless of one’s stage in life whether ब्रह्मचर्याश्रम, गृहस्थाश्रम, or वानप्रस्थाश्रम.
  • Root cause of all the scams that are engulfing social life across the world is uncontrolled aspirations and desires.
  • Mention of उदराग्नि brings to mind a Marathi verse which is often sung before commencing meals of a large gathering. It reads – वदनि कवळ घेता नाम घ्या श्रीहरीचे । सहज हवन होते नाम घेता फुकाचे । जीवन करी जीवी त्वां अन्न हे पूर्णब्रह्म । उदरभरण नोहे जाणिजे यज्ञकर्म ।।
    • This verse advocates that one should regard taking meal as a performance of a यज्ञ
    • हवन is whatever is offered into the fire of a यज्ञ
    • By that token whatever we eat becomes हवन offering to उदराग्नि
  • The word समारोपयेत् has different shades of meaning, apart from the meanings “make reside in, to instate” given above. One shade of meaning of समारोप is conclusion. By this shade of meaning, लौकिकाग्नीन् उदराग्नौ समारोपयेत् can mean “all desires should be concluded or ended in उदराग्नि
  • अग्नि the fire concludes what is offered to it. The most appropriate fire to conclude all desires is possibly उदराग्नि as advocated here. Since eating is a यज्ञ, उदराग्नि is a यज्ञ readily available for everyone with oneself. There is no need for any separate exercise to conclude all लौकिकाग्नी-s

५-५ गायत्रीं च स्ववाचाग्नौ समारोपयेत् = A person (whether a family man, or a celibate or one who has resorted to the jungles) should pervade the fire of one’s expressions with the sacred mantra, the गायत्री

  • Actually there are many गायत्री-s. A गायत्री is an ode to a particular deity. The most commonly known and practiced गायत्री is  ॐ भूः भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।।
  • Words typically found in a गायत्री are धीमहि and प्रचोदयात् For example गायत्री of Lord Ganesh is एकदंताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दंती प्रचोदयात् ।। As many as २४ गायत्री-s are listed at http://balsanskar.com/marathi/lekh/918.html
  • The word to be also studied is स्ववाचाग्नौ. In a broader sense वाचा is mode of expression. In scriptures वाचा or वाणी is analyzed to be of four types according to locations of their emergence – speech which emanates from navel नाभि is called as परावाणी, speech which emanates in the heart हृदय is called as पश्यंति, speech which emanates from throat कंठ is called as मध्यमा वाणी and speech which emanates from mouth मुख is called as वैखरी वाणी
  • अग्नि the fire not only concludes what is offered to it, but it also purifies. गायत्री-mantra also is very sacred and pure. Thus when the sacred and pure गायत्री-mantra pervades the fire of all वाचा-s of a person, the person becomes pure inside out ! All his expressions, all of his वाचा-s will simply be sweet and pure !
  • There is a two-liner दोहा in HIndi – ऐसी वाणी बोलिए मन का आपा खोय । औरन को शीतल करे आपहु शीतल होय It means …. “Utter such speech, which opens access to the well of your mind, which is nothing but a pool of cool waters. That water will cool down others and will also cool yourself.”

५-६ अत ऊर्ध्वं अमन्त्रवद् आचरेत् Thereafter, when all expressions, all वाचा-s are pervaded with गायत्री, practice thoughtlessness ! Wow ! How beautiful, how marvelous, but how challenging ! Easier said than done ! Is this the ultimate state of supreme, most blissful meditation ?

५-७ आत्मनि समाधौ संधिं आचरेत् This is my अन्वय of the original संधिं समाधौ आत्मनि आचरेत् । Since flexibility of syntax is a unique attribute of Sanskrit language, often times there is no need to re-write a sentence doing अन्वय. In doing अन्वय, one may be missing the emphasis desired by the author. And difference in emphasis does convey the meaning differently. For example, a sentence “I shall come to you for dinner tomorrow” can be uttered in many ways with different emphasis –

  • I shall come to you for dinner tomorrow” Emphasis on “I” will mean I myself, whether anybody else may come or not.
  • “I shall come to you for dinner tomorrow” Emphasis on “shall come” will mean, “certainly, I shall come”
  • “I shall come to you for dinner tomorrow” Emphasis on “to you” will mean “to you, not to anybody else”
  • “I shall come to you for dinner tomorrow” Emphasis on “for dinner” will mean “for dinner, mainly and at dinner time”
  • “I shall come to you for dinner tomorrow” Emphasis on “tomorrow” will mean “tomorrow, not today, nor later than tomorrow”
  • Maybe, the author of this उपनिषत् has some specific emphasis in mind when composing the sentence as संधिं समाधौ आत्मनि आचरेत् । For example, when saying समाधौ आत्मनि the word समाधौ is akin to being adjective of the word आत्मनि By that being in a state of समाधि has to be an attribute of oneself आत्मन् ।
    • An अन्वय as आत्मनि समाधौ may connote whenever one is in a state of समाधि. Being in a state of समाधि could then be temporary or periodic phase(s), not a permanent attribute.
    • But ऋषि would certainly advocate that a state of समाधि should be cultivated to be a permanent attribute.
  • This उपनिषत् has the title as संन्यास-विधिः and here the advice is of state of समाधि. This brings to mind the following श्लोक in श्रीमद्भगवद्गीता – न च संन्यसनादेव सिद्धिं समधिगच्छति ।।३-४।।
    • For a long time I have been reciting this as सिद्धिं समधि गच्छति ! I was holding in mind अन्वय as समधि: सिद्धिं गच्छति. But if it is written as सिद्धिं समधिगच्छति, the word समधिगच्छति has the verb “सम् + अधि + गम्” ! In my interpretation, I was holding समधि: to be a compound word समा धीः यस्य सः ! Now, this is some point to deliberate upon when I shall be studying this श्लोक at http://study1geetaa2sanskrit.wordpress.com/
    • Anyway one objective of संन्यास as stated in this श्लोक can be सिद्धि i.e. attainment of some superhuman faculty.
    • However this statement संधिं समाधौ आत्मनि आचरेत् । is but a part of the संन्यास-विधि process. This उपनिषत् does not hold any carrot of any objective or possible attainment. Diktats here are codes of conduct. Conduct should be so and so, period.
  • Conduct आचार is often an explicit expression. But here conduct advocated is with oneself, within oneself आत्मनि
  • Also conduct advocated here is no articulated activity or expression. The conduct advocated is संधि, union with the Ultimate, with the Fundamental, with the Eternal ! The conduct has to become आचार, the way of life, not sporadic indulgences.
    • That seems to be the difference between संन्यास and संन्यसन.

५-८ सर्वेषु वेदेषु आरण्यकं आवर्तयेत् । There are आरण्यक-s as accompaniments or appendices of वेद-s. I came across this quote in Hindi विद्वानों ने संहिता, ब्राह्मण, आरण्यक और उपनिषद इन चारों के संयोग को समग्र वेद कहा है । ये चार भाग सम्मिलित रूप से श्रुति कहे जाते हैं । meaning the learned people recognize complete Veda समग्र वेद as comprising of four parts संहिता, ब्राह्मण, आरण्यक and उपनिषद. All these four texts are called as श्रुति-s. Of these, संहिता is the base text of each Veda. ब्राह्मण, आरण्यक and उपनिषद are accompaniments or appendices also called as वेदाङ्ग (a part अङ्ग of a Veda) or वेदान्त (towards the end of a Veda)

  • I must confess that I have not read any संहिता of any Veda, much less any आरण्यक.
  • This statement सर्वेषु वेदेषु आरण्यकं आवर्तयेत्  advocates that one should do repetitive practice, आवर्तन of आरण्यक.
  • The knowledge in श्रुति-s seems to be so vast and deep. When and how can I know it in depth and imbibe it all in my conduct ? Since ऋषि of this उपनिषत् advocates सर्वेषु वेदेषु आरण्यकं आवर्तयेत् it must be true and correct. The question, “When and how ?” will now keep pestering me !

५-९ उपनिषदं आवर्तयेत् । It is some solace that I got this motivation to embark on this study of Upanishads. Here again what is advocated is repetitive practice आवर्तन. May that आवर्तन happen, with in-depth understanding, overhauling my conduct of my life in all serenity !

५-१० औषधवत् अशनम् आचरेत् । As noted earlier, this statement is repeated twice. May be, it can be uttered with difference in emphasis when saying it twice and that would lend different meanings. Possibly ऋषि wants both meanings to be imbibed and assimilated. Hence the repetition.

  • ५-१०-१ By one shade of meaning, eating should be taken in such measures as one takes doses of medicine.
  • ५-१०-२ By another shade of meaning, all food should be consumed as respectfully and with as good a discipline as one takes medicine.
  • ५-१०-३ This statement brings to mind the subhaaShitam studied in Learning Sanskrit by fresh approach – Lesson No. 95 at http://slabhyankar.wordpress.com/
पथ्ये सति गदार्तस्य किमौषधिनिषेवणैः ।
पथ्येऽसति गदार्तस्य किमौषधिनिषेवणैः ॥

meaning ….. “Where is the need to take medicines if one observes diet-regulations ? What is the use of taking medicines, if one does not observe diet-regulation ?”
  • ५-१०-४ Concept of limited diet is very much advocated in श्रीमद्भगवद्गीता also. See अपरे नियताहाराः प्राणान्प्राणेषु जुव्हति । सर्वेप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ।।४-३०।। युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । …(६-१७)

५-११ ब्रह्मचर्यम्  अहिंसाम् च अपरिग्रहम् च सत्यम् च यत्नेन हे रक्षतः

  • ५-११-१ The verb is in dual mode. So, subject also has to be of dual mode. The subject is however not explicit. In the अन्वय I have hence shown it as (तौ). It yet becomes a point to deliberate which two persons together (तौ) are implied by the ऋषि.
  • ५-११-२ ब्रह्मचर्यम्, अहिंसा, अपरिग्रहम्, सत्यम् are part of observances of the यम नियम aspects of अष्टाङ्गयोग  See – अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाः यमाः ।।पातञ्जलि-योगसूत्रेषु  साधन-पादे (द्वितीये अध्याये)-सूत्रं ३०।।
  • ५-११-३ These are strongly advocated in श्रीमद्भगवद्गीता also in many verses. For example, अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् (१६-२) ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते (१७-१४) अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् (१७-१५)
  • ५-११-४ Abiding by these observances requires determined effort ! Hence the diktat here – यत्नेन हे रक्षतः ! And this statement is to be recited, uttered, repeated to oneself thrice ! Would not that kind of recitation make it soak deep into one’s psyche ? ऋषि-s were certainly well-knowledgeable of human psyche. They also knew how to make a diktat soak deep.

५-१२ हे रक्षत इति ।

  • ५-१२-१ On one count रक्षत इति = रक्षत: इति (विसर्ग-संधिः). This makes रक्षत: as the verb, same as in previous statement.
  • ५-१२-२ However if इति is just the conclusion of the whole उपनिषत् then हे रक्षत becomes a separate sentence. Then the verb here would be रक्षत not रक्षत: Since रक्षत is plural “आज्ञार्थे मध्यम- (द्वितीय-) पुरुषे बहुवचनम्” then implicit natural subject would be यूयम् (you all) !
  • ५-१२-३ This establishes universal and eternal appeal of this आरुणिकोपनिषत् certainly and of Upanishads in general !
शुभमस्तु !
Advertisements
This entry was posted in सोपानः २ and tagged . Bookmark the permalink.

3 Responses to उपनिषदध्ययने द्वितीयः (२) सोपानः । – आरुणिकोपनिषत्

  1. great…it is, indeed, very inspiring…

  2. Dhaval says:

    hi Abhyankar ji,
    Very nice post indeed.
    It would be nice if you could provide the commentaries by different authors on a particular upanishat after the description is over.
    It would help enlighten the different meanings of the verses…

    Dr. Dhaval Patel

    • नमो नमः “डॉ. धवल पटेल”-महोदय !
      धन्यवादाः भवतः सूचनायै । मम मनस्यप्यस्ति इतराणां टीकानामपि अध्ययनम् समाविष्टुम् ।
      आरुणिकोपनिषद्विषये तु मत्सार्धं केवलं आचार्येण विनोबाजी-महोदयेन मराठी-भाषायां प्रदत्तम् भाषान्तरमेवास्ति ।
      तस्य उल्लेखः मया कृतः एव ।
      भवतु ।
      सस्नेहम् ,
      अभ्यंकरकुलोत्पन्नः श्रीपादः |
      “श्रीपतेः पदयुगं स्मरणीयम् ।”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s