उपनिषदध्ययने तृतीयः (३) सोपानः । आरुणिकोपनिषत् (1-2)

उपनिषदध्ययने तृतीयः (३) सोपानः ।
आरुणिकोपनिषत् (1-2)

Dr. Hari Narayan Bhat very kindly sent following comment on the previous post about आरुणिकोपनिषत् –
“….. As I can see from the AruNikA UpaniShad published by Adyar Library, with Sanskrit Commentary, this Upanishat has got 1-9 paragraphs, which begins with
1. शान्ति-मन्त्र – आप्यायन्तु etc.
2. आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम । तं गत्वोवाच – केन भगवन् कर्माण्यशेषतो विसृजानीति।
with the introduction of आरुणि asking प्रजापति going to his abode, how can renounce all the rites? and the whole text is the reply of प्रजापति to his question in detail
3. There is a closing paragraph 9 –
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत् परमं पदम् । इति ।
एवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनम् । इत्युपनिषत् ॥
This question presupposes the renunciation of the rites वर्णाश्रमधर्म prescribed by the श्रुति and स्मृति which is ordained for each वर्ण and आश्रम. The question is related to the संन्यासाश्रम the last one…..”
Taking clue from the comment from Dr. Bhat, I did some searching on the internet. As is seen at http://hi.wikipedia.org/wiki/शान्तिपाठ, the complete mantra ॐ आप्यायन्तु …. is a shanti-mantra associated with सामवेद. The shanti-mantra of सामवेद being the shanti-mantra of this उपनिषत् establishes its association with Samveda. केनोपनिषत् also has this same shanti-mantra.

Actually the शान्ति-मन्त्र-s merit an independent study. I propose to study them one by one under संस्कृताध्ययनम् Learning Sanskrit by fresh approach at http://slabhyankar.wordpress.com/

  • The shanti-mantra ॐ पूर्णमदः पूर्णमिदम् associated with शुक्लयजुर्वेद was already studied in Lesson # 24. This shanti-mantra ॐ पूर्णमदः पूर्णमिदम् is also at the beginning and ending of ईशावास्योपनिषत् Thus ईशावास्योपनिषत् must be a Vedang वेदाङ्ग of शुक्लयजुर्वेद
  • The famous ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ! was studied in Lesson # 90. It is a shanti-mantra of कृष्णयजुर्वेद
  • Another famous shanti-mantra ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मामृतं गमय ॥  was studied in Lesson # 69

When searching further in continuation of the comments received from Dr. H. N. Bhat, I found on the internet at http://sa.wikisource.org/wiki/आरुणेय_उपनिषद् following version of

॥ आरुणेयोपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ आरुणिः प्रजापतेर्लोकं जगाम । तं गत्वोवाच । केन भगवन्कर्माण्यशेषतो विसृजामीति । तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं च भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं च विसृजेत् । दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । शेषं विसृजेदिति ॥ १ ॥

गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु वा विसृजेत् । अलौकिकाग्नीनुदराग्नौ समारोपयेत् । गायत्रीं च स्ववाचाग्नौ समारोपयेत् । कुटीचरो ब्रह्मचारी कुटुम्बं विसृजेत् । पात्रं विसृजेत् । पवित्रं विसृजेत् । दण्डाँल्लोकांश्च विसृजेदिति होवाच । अत उर्ध्वममन्त्रवदाचरेत् । ऊर्ध्वगमनं विसृजेत् । औषधवदशनमाचरेत् । त्रिसन्ध्यादौ स्नानमाचरेत् । सन्धिं समाधावात्मन्याचरेत् । सर्वेषु वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तयेदिति ॥ २ ॥

खल्वहं ब्रह्मसूत्रं सूचनात्सूत्रं ब्रह्मसूत्रमहमेव विद्वांस्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखा मा गोपायोजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति । अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन हे रक्षते३ हे रक्षतो३ हे रक्षत इति ॥ ३ ॥

अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ ब्रह्मचारिणां मृत्पात्रं वाऽलाम्बुपात्रं दारुपात्रं वा । कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्कारादीनपि परित्यजेत् । वर्षासु ध्रुवशीलोऽष्टौ मासानेकाकी यतिश्चरेत् द्वावेव वा चरेद्द्वावेव वा चरेदिति ॥ ४ ॥

स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् । पितरं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह । यतयो भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा । ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् । खल्वेतदुपनिषदं विद्वान्यम् एवं वेद पालाशं बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति । एवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनम् इत्युपनिषद् ॥ ५ ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति आरुणेयोपनिषत्समाप्ता ॥

It seems that the आरुणिकोपनिषत् has also an alternative title as आरुणेयोपनिषत्. And the text now obtained detailed in five paragraphs is quite long and needs to be studied paragraph by paragraph. What we studied earlier is only some part of para 2 above. There are variations even in that para so much so that it needs to be studied almost all over again.

Leaving out study of शान्ति-मन्त्र as mentioned above, we need to begin with para 1, viz.

ॐ आरुणिः प्रजापतेर्लोकं जगाम । तं गत्वोवाच । केन भगवन्कर्माण्यशेषतो विसृजामीति । तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं च भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं च विसृजेत् । दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । शेषं विसृजेदिति ॥ १ ॥

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

ॐ आरुणिः प्रजापते: लोकं जगाम । तं गत्वा उवाच । केन भगवन् कर्माणि अशेषत: विसृजामि इति । तं ह उवाच प्रजापति: तव पुत्रान् भ्रातॄन् बन्धु-आदीन्  शिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं च भू:-लोक-भुव:-लोक-स्व:-लोक-मह:-लोक-जन:-लोक-तप:-लोक-सत्य-लोकं च अतल-तलातल-वितल-सुतल-रसातल-महातल-पातालं ब्रह्माण्डं च विसृजेत् । दण्डम् आच्छादनं च एव कौपीनं च परिग्रहेत् । शेषं विसृजेत् इति ॥ १ ॥

Exercise 2 Paraphrase the clauses, Detail the analyses of clauses 

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु ।

  1. प्राजापत्यः आरुणिः प्रजापते: लोकं जगाम ।
  2. तं गत्वा उवाच –
  3. भगवन् केन कर्माणि अशेषत: विसृजामि
  4. इति ।
  5. तं प्रजापति: उवाच ह
  6. तव पुत्रान् भ्रातॄन् बन्धु-आदीन्  शिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं च भू:-लोक-भुव:-लोक-स्व:-लोक-मह:-लोक-जन:-लोक-तप:-लोक-सत्य-लोकं च अतल-तलातल-वितल-सुतल-रसातल-महातल-पातालं ब्रह्माण्डं च (भवान्) विसृजेत् ।
  7. दण्डम् आच्छादनं च एव कौपीनं च (भवान्) परिग्रहेत् ।
  8. (भवान्) शेषं विसृजेत् ।
  9. इति ।
वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,इतरे शब्दाः क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
प्राजापत्यः आरुणिः प्रजापते: लोकं जगाम प्रधान:
तं गत्वा गौणः
(प्राजापत्यः आरुणिः) उवाच प्रधान:
भगवन् कर्माणि केन अशेषत: विसृजामि प्रधान:
इति प्रधान:
प्रजापति: तं उवाच
(भवान्) तव पुत्रान्….ब्रह्माण्डं विसृजेत् प्रधान:
(भवान्) दण्डम् आच्छादनं कौपीनं परिग्रहेत् गौणः
(भवान्) शेषम् विसृजेत् प्रधान:
१० इति प्रधान:

Exercise 3 Decipher the compound words, and detail grammatical analysis of all words 

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

१ आरुणेयोपनिषत् इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १-१ आरुणेया उपनिषत् इति आरुणेयोपनिषत् । कर्मधारयः ।
  • १-२ आरुणेया इति तद्धितं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • १-२-१ आरुणेः इयं इति आरुणेया = what is (composed by) आरुणि
    • १-२-२ आरुणेः “आरुणि” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
      • १-२-२-१ अरुणस्य अयम् (पुत्रः) इति आरुणिः = son of अरुण
      • १-२-२-२ अरुणस्य “अरुण” (= charioteer of sun, harbinger of sun) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १-३ उपनिषत् “उप + नि + सद्” १ वा ६ प (= to sit near for study) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “उपनिषत्” (= sacred text to be learnt at the feet of a Guru) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १-४ आरुणेयोपनिषत् = उपनिषत् of (composed by) आरुणि

२ ॐ (= OM) इति एकाक्षरं ब्रह्म (the monosyllabic sound of the universe) ।

I shall try and see how it works to do further analysis sentence by sentence.

प्राजापत्यः आरुणिः प्रजापते: लोकं जगाम

३ प्राजापत्यः “प्राजापत्य” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१ प्रजापतेः अयम् (पुत्रः) इति प्राजापत्यः = son of प्रजापति
  • ३-२ प्रजापतेः “प्रजापति” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • ३-२-१ प्रजायाः पतिः इति प्रजापतिः । षष्ठी-तत्पुरुषः ।
    • ३-२-२ प्रजायाः “प्रजा” (= subjects) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
    • ३-२-३ पतिः “पति” (= master) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ३-२-४ प्रजापतिः = master of the subjects i.e. of the living world, an epithet of ब्रह्मन्

४ आरुणिः “आरुणि” इति तद्धितं विशेषणम् यथा उपरि (१-२-२) अङ्गे विवृतम् (as detailed above at 1-2-2) ।

५ प्रजापते: (यथा उपरि ३-२ अङ्गे विवृतम् । as detailed above at 3-2)

६ लोकम् “लोक” (= space) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

५ जगाम “गम्” १ प (= to go) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence –

प्राजापत्यः आरुणिः प्रजापते: लोकं जगाम = आरुणि, son of प्रजापति went to the place of प्रजापति.

Notes –

  • Here आरुणि is mentioned as son of प्रजापति.
  • By etymology of आरुणि, he is also son of अरुण. By that father of आरुणि has two epithets or adjectives – प्रजापति and अरुण
  • The word प्राजापत्य is also in मन्त्र १६ ईशावास्योपनिषत् – “प्राजापत्य व्यूह रश्मीन् समूह” In his commentary on ईशावास्योपनिषत्, श्रीमच्छङ्कराचार्य also explains it as प्रजापतेः अपत्यं प्राजापत्यः । But in this मन्त्र १६ in ईशावास्योपनिषत् there are many addresses to deity sun, viz. हे पूषन्, हे एकर्षे, हे यम, हे सूर्य, हे प्राजापत्य Since प्राजापत्य is also one of all those addresses, deity sun is mentioned as son of प्रजापति.
  • Whereas the etymologies of आरुणि and प्राजापत्य tend to become confusing, आचार्य विनोबा has given a different perception about प्राजापत्य. Since a kingdom has a राजा and प्रजा, he seems to consider प्राजापत्य as focusing on प्रजा. It seems he presumes a different derivation or etymology of प्राजापत्य, as प्रजा अपत्यं यस्य सः (He for whom all subjects are like children) Extending this thought he considers प्राजापत्य to be a code of conduct, a responsibility and प्राजापत्य to be the person or deity who is obliged to abide by the code of प्राजापत्य
  • By that token, प्राजापत्यः आरुणिः प्रजापते: लोकं जगाम implies that आरुणि, being प्राजापत्य at heart, went over to  प्रजापति to get guidance (for the benefit of all) !

तं गत्वा उवाच

६ तम्  “तत्” (= pronoun of third person) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

७ गत्वा “गम्” १ प (= to go) इति धातुः । तस्मात् त्वान्तं भूतकालवाचकं अव्ययम् “गत्वा” (= on going) ।

८ उवाच “वच्” २ प (= to say, to speak) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence –

तं गत्वा उवाच = On going to him (or on going there) said (so) –

Notes –

  • The pronoun तं can be referring either to तं लोकं or प्रजापतिम्
  • Verb ‘to go’ is intransitive. But in Sanskrit, the destination to be gone to or the person to be met are in object case द्वितीया विभक्तिः

भगवन् केन कर्माणि अशेषत: विसृजामि

९ भगवन् “भगवत्” (= God) इति विशेषणम् । प्रायः पुल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ९-१ भगवत् = भग + वत् ।
  • ९-२ भग = brilliance
  • ९-३ वत् is a suffix showing attribute
  • ९-४ भगवत् = one who has the attribute of brilliance, halo, hence भगवत् = God

१० केन “किम्” (= what, who) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।

११ कर्माणि “कर्मन्” (= action, activity, indulgence) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

१२ अशेषत: इति सामासिकं अव्ययम् ।

  • १२-१ न शेषः इति अशेषः । नञ्-तत्पुरुषः ।
  • १२-२ शेषः “शिष्” १ प ७ प १० उ (= to leave remainder) इति धातुः । तस्मात् पुल्लिङ्गि नाम “शेष” (= remainder, balance) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२-३ तः (= तथा) प्रत्ययः ।
  • १२-४ अशेषत: = यथा न शेषः तथा = as shall have no remainder, such that there is nothing left

१३ विसृजामि “वि + सृज्” ६ प (= to leave out, to forsake) इति धातुः । तस्य लट्-वर्तमानकाले उत्तमपुरुषे एकवचनम् ।

१४ इति (= like this) अव्ययम् ।

Meaning of the sentence –

भगवन् केन कर्माणि अशेषत: विसृजामि = Oh Lord, by what shall I be forsaking all actions, leaving no remainder ?

Notes –

In भगवद्गीता also अर्जुन wanted to forsake all actions. Here also आरुणी asks his father प्रजापति about forsaking actions. It becomes interesting to see प्रजापति’s reply to the question.

तं प्रजापति: उवाच ह

१५ तम् “तत्” (= he, she or it – pronoun of third person) इति प्रथमपुरुषार्थि सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

१६ ह (= and then, so) इति उद्गारवाचकं अव्ययम् ।

Meaning of the sentence – And then प्रजापति did say to him so –

And then प्रजापति said to him.

तव पुत्रान् भ्रातॄन् बन्धु-आदीन्  शिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं च भू:-लोक-भुव:-लोक-स्व:-लोक-मह:-लोक-जन:-लोक-तप:-लोक-सत्य-लोकं च अतल-तलातल-वितल-सुतल-रसातल-महातल-पातालं ब्रह्माण्डं च (भवान्) विसृजेत् ।

१७ तव “युष्मद्” (= pronoun of second person) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

१८ पुत्रान् “पुत्र” (= son) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

१९ भ्रातॄन् “भ्रातृ” (= brother) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

२० बन्ध्वादीन् “बन्ध्वादि” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • २०-१ बन्धुः आदिः यस्य सः बन्ध्वादिः । बहुव्रीहिः ।
  • २०-२ बन्धुः “बन्धु” (= brother, friend, relation) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २०-३ आदिः “आदि” (= what comes at beginning, what gives a start) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २०-४ बन्ध्वादिः = everyone, starting with friends, relatives, etc.

२१ शिखाम् “शिखा” (= hair) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

२२ यज्ञोपवीतम् “यज्ञोपवीत” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २२-१ यज्ञे उपवीतं इति यज्ञोपवीतम् । सप्तमी-तत्पुरुषः । अथवा
    • २२-१-१ यज्ञाय उपवीतं इति यज्ञोपवीतम् । चतुर्थी-तत्पुरुषः ।
    • २२-१-२ यज्ञेन उपवीतं इति यज्ञोपवीतम् । तृतीया-तत्पुरुषः ।
  • २२-२ यज्ञे “यज्ञ” (= sacrificial fire) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • २२-२-१ यज्ञाय “यज्ञ” इति पुल्लिङ्गि नाम । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
    • २२-२-२ यज्ञेन “यज्ञ” इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
    • २२-२-३ श्रीमद्भगवद्गीता gives a far wider comprehensiveness to the concept of यज्ञ See – द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।  स्वाध्याय-ज्ञानयज्ञाश्च यतयः संशितव्रताः ।।४-२८।।
  • २२-३ उपवीतम् “उप + वि + इ” १ उ, २ प, ४ आ (= ) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उपवीत” (= ) । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • २२-४ यज्ञोपवीतम् = sacred thread worn during the ritual of enunciation into acquisition of knowledge. The ritual is preferred to be performed at about 8 years of age when a boy is expected to be ready to embark upon acquisition of knowledge, what is mentioned in श्रीमद्भगवद्गीता as स्वाध्याय-ज्ञानयज्ञ, as noted above.

२३ यागम् “यज्” १ उ (= to sacrifice, to perform worship with sacrifices) इति धातुः । तस्मात् पुल्लिङ्गि नाम “याग” (= sacrifice) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २३-१ त्याग and याग sound to be synonyms of each other. But याग is possibly more ritualistic, whereas त्याग is primarily conceptual.

२४ सूत्रम् “सूत्र” (= thread, hint, formula, formulation, a crisp statement with a rich and comprehensive derivation summarized in it, an edict) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २४-१ ब्रह्मसूत्र उपनिषत्  आरण्यक are three वेदान्त-s which summarize the philosophy detailed in वेद-s. So the word सूत्रम् often connotes ब्रह्मसूत्र-s

२५ स्वाध्यायम्  “स्वाध्याय” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २५-१ स्वेन अध्यायः इति स्वाध्यायः । तृतीया-तत्पुरुषः ।
  • २५-२ स्वेन “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • २५-३ अध्यायः “अधि + आ + इ” १ उ, २ प, ४ आ (= to study, to understand, to assimilate, to practice) इति धातुः । तस्मात् पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २५-४ स्वाध्यायः = self-study, what one practices by oneself

२६ भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकम् “भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोक” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २६-१ भूः एव लोकः भूर्लोक: । कर्मधारयः ।
    • तथैव भुवर्लोक: (भुवः एव लोकः) स्वर्लोक: (स्वः एव लोकः) महर्लोक: (महः एव लोकः) जनोलोक: (जनः एव लोकः) तपोलोक: (तपः एव लोकः) सत्यलोक: (सत्यं एव लोकः)
  • २६-२ भूर्लोक: भुवर्लोक: स्वर्लोक: महर्लोक: जनोलोक: तपोलोक: सत्यलोक: च एतेषां समाहारः भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोक: । समाहार-द्वन्द्वः ।
  • २६-३ भूः “भू” (= earth) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६-४ भुवः “भुवस्” (= atmosphere above earth) इति अव्ययम् (?) ।
  • २६-५ स्वः “स्वर्” (= ) इति अव्ययम् (?) ।
  • २६-६ महः “महर्” (= ) इति अव्ययम् (?) ।
  • २६-७ जनः “जनस्” (= ) इति अव्ययम् (?) ।
  • २६-८ तपः “तपस्” (= ) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६-९ सत्यम् “सत्य” (= ) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • भू:, भुवः, स्वः, महः, जनः, तपः and सत्यम् are said to be seven worlds लोकाः above the earth. One wonders whether the ऋषि-s had the extra-perceptionary ability by which they could identify and name seven worlds above the earth.
  • The lowest part of the Earth’s atmosphere, the troposphere extends from the surface to about 10 km (6 miles). Above 10 km is the stratosphere, followed by the mesosphere. In the stratosphere incoming solar radiation creates the ozone layer. At heights of above 80 km (50 miles), in the thermosphere, the atmosphere is so thin that free electrons can exist for short periods of time before they are captured by a nearby positive ion. The number of these free electrons is sufficient to affect radio propagation. This portion of the atmosphere is ionized and contains a plasma which is referred to as the ionosphere.

२७ अतलतलातलवितलसुतलरसातलमहातलपातालम् “अतलतलातलवितलसुतलरसातलमहातलपाताल” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २७-१ अतलम् तलातलम् वितलम् सुतलम् रसातलम् महातलम् पातालम् च एतेषां समाहारः अतलतलातलवितलसुतलरसातलमहातलपातालम् । समाहार-द्वन्द्वः ।
  • २७-२ अतलम् “अतल” (= name of a netherworld or of strata beneath the earth’s crest) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २७-३ तलातलम् “तलातल” (= name of a netherworld or of strata beneath the earth’s crest) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २७-४ वितलम् “वितल” (= name of a netherworld or of strata beneath the earth’s crest) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २७-५ सुतलम् “सुतल” (= name of a netherworld or of strata beneath the earth’s crest) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २७-६ रसातलम् “रसातल” (= name of a netherworld or of strata beneath the earth’s crest) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २७-७ महातलम् “महातल” (= name of a netherworld or of strata beneath the earth’s crest) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २७-८ पातालम् “पाताल” (= name of a netherworld or of strata beneath the earth’s crest) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२८ ब्रह्माण्डम् “ब्रह्माण्ड” इति सामासिकं पुल्लिङ्गि अथवा नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • २८-१ ब्रह्मणः अण्डम् इति ब्रह्माण्डम् । षष्ठी-तत्पुरुषः । अथवा
    • ब्रह्मणः अण्डः इति ब्रह्माण्ड: । षष्ठी-तत्पुरुषः ।
  • २८-२ ब्रह्मणः “ब्रह्मन्” (= creator of the universe) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २८-३ अण्डः अथवा अण्डम् “अण्ड” (= egg) इति पुल्लिङ्गि अथवा नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २८-४ ब्रह्माण्ड = the primordial egg from which universe sprang, the universe itself

२९ विसृजेत् “वि + सृज्” ६ प (= to forsake, to let go) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence –

You should forsake (give up) your sons, brothers, all relatives, hair, the sacred thread, (all) rituals, scripture(s), (all) self-study and practices, all the seven worlds above the earth and all the seven nether-worlds and the whole universe itself.

Notes –

Things to be forsaken as detailed here are –

  • पुत्रान् भ्रातॄन् बन्धु-आदीन् which are related but external to oneself
  • शिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं are quite close to oneself and
  • all the 14 worlds are rather distant and far-spread
    • seven worlds above भूः, भुवः, स्वः महः, जनः, तपः सत्यम् and
    • the seven worlds below अतल, तलातल, वितल सुतल, रसातल, महातल, पाताल and
    • also the universe ब्रह्माण्ड.
  • How does one forsake the 14 worlds and the universe ?
    • One is very much in the world, on the earth. How does one forsake that fact ?
    •  What forsaking is advocated is obviously at the mental and intellectual level and not merely at the physical level.
    • Forsaking शिखां यज्ञोपवीतं यागं सूत्रं is of course at physical level

दण्डम् आच्छादनम् चैव कौपीनं च (भवान्) परिग्रहेत्

३० दण्डम् “दण्ड” (= staff, stick) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३१ आच्छादनम् “आ + छद्” १० उ (= to cover all over) इति धातुः । तस्य “आच्छाद्”-प्रयोजकात् नपुंसकलिङ्गि नाम “आच्छादन” (= cover, garment) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३२ कौपीनम् “कौपीन” (= piece of rag which would cover just the private parts) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३३ परिग्रहेत् “परि + ग्रह्” ९ उ (= to accept, to receive, to take, to wear, to carry) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence –

दण्डमाच्छादनम् चैव कौपीनं च (भवान्) परिग्रहेत् = One should  carry a staff and wear a garment and also an undergarment, a piece of rag which would cover just the private parts.

Notes –

  • The mention of the need to wear an undergarment brings forth the penchant or meticulousness for details !
  • I guess there should have been the mention also of a कमण्डलु a handy and essential utensil.
  • I also guess that आच्छादनम् also includes footwear. Jain Muni-s however abhor footwear.
    • Digambar-Jains do not commend either आच्छादनम् or even कौपीनम्

(भवान्) शेषं परित्यजेत्

३४ शेषम् “शिष्” १ प ७ प १० उ (= to leave remainder) इति धातुः । तस्मात् पुल्लिङ्गि नाम “शेष” (= remainder, balance) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३५ परित्यजेत् “परि + त्यज्” १ प (= to give up, to stay away from, to avoid) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence –

(भवान्) शेषं परित्यजेत् = You should stay away from (avoid) everything else.

Exercise 4 Notes
स्वाध्यायः ४ टिप्पणयः

४-१ In this paragraph, there are three verbs, which are worth noting  विसृजेत् परिग्रहेत् and परित्यजेत्

  • Things detailed under विसृजेत् seem to be things to be forsaken by one’s own volition
  • Things detailed under परिग्रहेत् seem to be bare minimum things for self-protection and
  • For परित्यजेत् what is detailed is “everything else शेषम्”. Considering the meaning of “परि + त्यज्” as “to give up, to stay away from, to avoid”, it carries the concept somewhat further to विसृज् “to forsake”.
    • I have known that some saints do not like, rather avoid anybody falling at their feet or touching their feet. So, शेषं परित्यजेत् possibly suggests such avoidance, staying away from even respects, which others may want to express. शेषम् परित्यजेत् meaning avoiding everything else, would also include avoiding respects from others !
  • I thought it good to assume the subject of all these verbs to be भवान्, considering that the sentence of the verb विसृजेत् starts with ‘तव”

४-२ Whereas things to be forsaken विसृजेत् include पुत्रान् भ्रातॄन् बन्धु-आदीन् and all the fourteen worlds and also the universe ब्रह्माण्ड, the diktat does not specifically say that one should retire to the jungles. It does not include वनवास under परिग्रहेत्

४-३ As stated, this उपनिषत् which I thought being possibly the shortest, being only one parahraph has turned out to be much longer, 5 paragraphs and also shanti-mantra. This version आरुणेयोपनिषत् also does not show its title as संन्यास-विधिः very explicitly. But the title seems to be quite apt.

  • दण्डमाच्छादनम् चैव कौपीनं च (भवान्) परिग्रहेत् readily brings to mind a picture of a संन्यासी

४-४ This उपनिषत् is also made out as a dialogue between आरुणी and प्रजापति . Dialogue seems to be a charming style of scriptural literature, dialogue between a precept and a disciple. Although the diktats are primarily what the disciple alone may respectfully accept, the advice is so universal and eternal that anyone anytime may accept as advice unto oneself. But no bindings, acceptance is totally voluntary. If it appeals to you, take it. If not let it be just what it was originally made out as – a dialogue between आरुणी and प्रजापति. Is it a smart strategy and not just a style of literature ?

शुभमस्तु !

-o-O-o-
Advertisements
This entry was posted in सोपानः ३. Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s