उपनिषदध्ययने चतुर्थः (४) सोपानः । आरुणिकोपनिषत् (1-3)

उपनिषदध्ययने चतुर्थः (४) सोपानः ।
आरुणिकोपनिषत् (1-3)

Now on to second paragraph of

॥ आरुणेयोपनिषत् ॥

गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु वा विसृजेत् । अलौकिकाग्नीनुदराग्नौ समारोपयेत् । गायत्रीं च स्ववाचाग्नौ समारोपयेत् । कुटीचरो ब्रह्मचारी कुटुम्बं विसृजेत् । पात्रं विसृजेत् । पवित्रं विसृजेत् । दण्डाँल्लोकांश्च विसृजेदिति होवाच । अत उर्ध्वममन्त्रवदाचरेत् । ऊर्ध्वगमनं विसृजेत् । औषधवदशनमाचरेत् । त्रिसन्ध्यादौ स्नानमाचरेत् । सन्धिं समाधावात्मन्याचरेत् । सर्वेषु वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तयेदिति ॥२॥

It was much of this paragraph which was taken up in post 1 on आरुणिकोपनिषत्. But there are differences in this version. Some sentences are extra also.

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा उपवीतं भूमौ अप्सु वा विसृजेत् । अलौकिकाग्नीन् उदराग्नौ समारोपयेत् । गायत्रीं च स्ववाचा-अग्नौ समारोपयेत् । कुटीचर: ब्रह्मचारी कुटुम्बं विसृजेत् । पात्रं विसृजेत् । पवित्रं विसृजेत् । दण्डान् लोकान् च विसृजेत् इति ह उवाच । अत: उर्ध्वम् अमन्त्रवत् आचरेत् । ऊर्ध्वगमनं विसृजेत् । औषधवत् अशनम् आचरेत् । त्रिसंधि-आदौ स्नानम् आचरेत् । सन्धिं समाधौ आत्मनि आचरेत् । सर्वेषु वेदेषु आरण्यकम् आवर्तयेत् । उपनिषदम् आवर्तयेत् उपनिषदम् आवर्तयेत् इति ॥ २ ॥

Exercise 2 Paraphrase the clauses, Detail the analyses of clauses 

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु ।

  1. गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा उपवीतं भूमौ अप्सु वा विसृजेत् ।
  2. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) अलौकिकाग्नीन् उदराग्नौ समारोपयेत् । – Studied earlier in द्वितीयः (२) सोपानः (2). Check difference
  3. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) गायत्रीं च स्ववाचाग्नौ समारोपयेत् । – Studied earlier in द्वितीयः (२) सोपानः (2).
  4.  कुटीचर: ब्रह्मचारी कुटुम्बं विसृजेत् ।
  5. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) पात्रं विसृजेत् ।
  6. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) पवित्रं विसृजेत् ।
  7. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) दण्डान् लोकान् च विसृजेत्
  8. इति ह उवाच ।
  9. अत: उर्ध्वम् (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) अमन्त्रवत् आचरेत् । – Studied earlier in द्वितीयः (२) सोपानः (2).
  10. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) ऊर्ध्वगमनं विसृजेत् ।
  11. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) औषधवत् अशनम् आचरेत् । – Studied earlier in द्वितीयः (२) सोपानः (2).
  12. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) त्रिसंध्यादौ स्नानम् आचरेत् ।
  13. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) सन्धिं समाधौ आत्मनि आचरेत् । – Studied earlier in द्वितीयः (२) सोपानः (2).
  14. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) सर्वेषु वेदेषु आरण्यकम् आवर्तयेत् । – Studied earlier in द्वितीयः (२) सोपानः (2).
  15. (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) उपनिषदम् आवर्तयेत् (२) – Studied earlier in द्वितीयः (२) सोपानः (2).
  16. इति । – Studied earlier in द्वितीयः (२) सोपानः (2).
वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,
इतरे शब्दाः
क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा उपवीतम् भूमौ अप्सु वा विसृजेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) अलौकिकाग्नीन् उदराग्नौ समारोपयेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) गायत्रींम् स्ववाचाग्नौ समारोपयेत् प्रधान:
कुटीचर: ब्रह्मचारी कुटुम्बम् विसृजेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) पात्रम् विसृजेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) पवित्रम् विसृजेत् प्रधान:
(गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) दण्डान् लोकान् च विसृजेत् प्रधान:
इति ह उवाच प्रधान:
अत: उर्ध्वम् (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) अमन्त्रवत् आचरेत् प्रधान:
१० (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) ऊर्ध्वगमनं विसृजेत् प्रधान:
११ (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) अशनम् औषधवत् आचरेत् प्रधान:
१२ (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) स्नानम् त्रिसंध्यादौ आचरेत् प्रधान:
१३ (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) सन्धिं समाधौ आत्मनि आचरेत् प्रधान:
१४ (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) आरण्यकम् सर्वेषु वेदेषु आवर्तयेत् प्रधान:
१५ (गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) उपनिषदम् आवर्तयेत् प्रधान:
१६ इति प्रधान:

Exercise 3 Decipher the compound words, and detail grammatical analysis of all words 

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

Considering sentence by sentence, excluding words and sentences studied earlier and where there is no difference –

गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा उपवीतं भूमौ अप्सु वा विसृजेत् । 

१ उपवीतम् “उप + वि + इ” १ उ, २ प, ४ आ (= to put on, to wear) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “उपवीत” (= worn) । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १-१ प्रायः उपवीतं इति यज्ञोपवीतम् ।
  • १-२ “यज्ञोपवीतम्” यथा द्वितीये सोपाने विवृतम् – as detailed in second post
  • १-३ “यज्ञोपवीत” इति सामासिकं नपुंसकलिङ्गि नाम ।
  • १-४ यज्ञे उपवीतं इति यज्ञोपवीतम् । सप्तमी-तत्पुरुषः । अथवा
    • १-४-१ यज्ञाय उपवीतं इति यज्ञोपवीतम् । चतुर्थी-तत्पुरुषः ।
    • १-४-२ यज्ञेन उपवीतं इति यज्ञोपवीतम् । तृतीया-तत्पुरुषः ।
  • १-५ यज्ञे “यज्ञ” (= sacrificial fire) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • १-५-१ यज्ञाय “यज्ञ” इति पुल्लिङ्गि नाम । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
    • १-५-२ यज्ञेन “यज्ञ” इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
    • १-५-३ श्रीमद्भगवद्गीता gives a far wider comprehensiveness to the concept of यज्ञ See – द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।  स्वाध्याय-ज्ञानयज्ञाश्च यतयः संशितव्रताः ।।४-२८।।
  • १-६ यज्ञोपवीतम् = sacred thread worn during the ritual of enunciation into acquisition of knowledge. The ritual is preferred to be performed at about 8 years of age when a boy is expected to be ready to embark upon acquisition of knowledge, what is mentioned in श्रीमद्भगवद्गीता as स्वाध्याय-ज्ञानयज्ञ, as noted above.

२ भूमौ “भूमि” (= ground) इति स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

३ अप्सु “अप्” (= water, water-body) इति स्त्रीलिङ्गि (नित्य बहुवचनि) नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

४ विसृजेत् “वि + सृज्” ६ प (= to forsake, to let go) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence – गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा उपवीतं भूमौ अप्सु वा विसृजेत् । =

A person, whether an householder, celibate or living in jungles, should forsake (give up) in ground or in a water-body the sacred thread worn during the ritual of enunciation into acquisition of knowledge.

  • The ritual is preferred to be performed at about 8 years of age when a boy is expected to be ready to embark upon acquisition of knowledge, (Acquisition of knowledge is mentioned in श्रीमद्भगवद्गीता as स्वाध्याय-ज्ञानयज्ञ).

Notes –

The sacred thread to be forsaken is to be disposed off भूमौ अप्सु वा either in a ground or in a water-body. When disposing off in a ground, it is implied that it be disposed off by burying it. It is not to be disposed off by throwing it anywhere recklessly.

(गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) अलौकिकाग्नीन् उदराग्नौ समारोपयेत् ।

When studied in second post the word then studied was लौकिकाग्नीन् and not अलौकिकाग्नीन्

५ अलौकिकाग्नीन् “लौकिकाग्नि” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

  • ५-१ न लौकिकः इति अलौकिकः । नञ्-तत्पुरुषः ।
  • ५-२ लौकिकः अग्निः इति लौकिकाग्निः । कर्मधारयः ।
  • ५-३ लौकिकः “लौकिक” इति तद्धितं विशेषणम् । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • ५-३-१ लोके अस्ति इति लौकिकम् ।
    • ५-३-२ लोके “लोक” (= people, populace) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
    • ५-३-३ लौकिकः = what is found among people, what is experienced by people
  • ५-४ अग्निः “अग्नि” (= fire) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
  • ५-५ अलौकिकाग्निः = fires, which are not manifest in the world

Meaning of the sentence –

(गृहस्थ: ब्रह्मचारी वा वानप्रस्थ: वा) अलौकिकाग्नीन् उदराग्नौ समारोपयेत् । = fires, which are not manifest in the world should be devolved in the fire in the stomach.

Notes –

  1. Fires are summarily referred to as ताप-s, which are basically categorized in three categories – आधिभौतिक आधिदैविक आध्यात्मिक This is briefly detailed in श्रीमद्भगवद्गीता in अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ।।८-४।। Here they are detailed as categories of भाव than of ताप. However one can very well say that nurturing any भाव involves experiencing ताप. By that token, categories of भाव become categories of ताप as well.
    • आधिभौतिक ताप – agonies caused by external causes such as snake-bite, injury caused when being hit by a falling or flying object
    • आधिदैविक ताप – afflictions caused by calamities such as floods, drought, earthquakes, hurricanes
    • आध्यात्मिक  ताप – These are psychic afflictions caused by the six enemies षड्रिपु viz. anger राग, greed or avarice लोभ, false ego दम्भ, delusion of mind मोह, arrogance मद,  envy or jealousy मत्सर
  2. (In Hindi) अन्य व्यक्तियोंकी अपेक्षा तो पढ़े-लिखेको ताप भी अधिक होता है । गँवारके केवल आधिभौतिक, आधिदैविक और आध्यात्मिक—ये तीन ताप होते हैं, पर पढ़े-लिखे विद्वानके ताप सात होते हैं—(१) आधिभौतिक, (२) आधिदैविक, (३) आध्यात्मिक, (४) अभ्यास (शास्त्रका अभ्यास), (५) भंग(अपमानका भय), (६) विस्मार (भूल न जाऊँ—इसकी चिंता) और (७) गर्व (विद्वत्ताका अभिमान) । (Ref. http://satcharcha.blogspot.com/2010/06/blog-post_15.html)
    • As detailed here ताप-s for a learned person are detailed to be of seven types, adding four more types as (4) need to do studies (5) fear of disgrace (6) fear of loss of memory and (7) fear of affliction with ego
  3. It is challenging however to understand and apply how one can assimilate or devolve all ताप-s into the fire in the stomach. Here comes the distinction between textual knowledge and knowledge from experience. It seems that knowledge of how one can assimilate or devolve all ताप-s into the fire in the stomach can be only a knowledge of experience. The statement here अलौकिकाग्नीन् उदराग्नौ समारोपयेत् is basically a textual statement. Its full understanding can come only by experience, more so under the guidance of a capable teacher गुरु
  4. Since categories of भाव are categories of ताप also, it should be possible to achieve devolving all ताप-s by devolving all भाव-s ! This is what is possibly implicit in the further statement अत: उर्ध्वम् अमन्त्रवत् आचरेत् We shall come to that soon.

कुटीचर: ब्रह्मचारी कुटुम्बं विसृजेत् ।

६ कुटीचर: “कुटीचर” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ६-१ कुटौ चरति इति कुटीचरः । उपपद-तत्पुरुषः ।
  • ६-२ कुटौ कुटी (= cottage) इति स्त्रीलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ६-३ चरति “चर्” १ प (= to move, to go about, to live) इति धातुः । तस्मात् “चर” (= चरति इति = one who moves, goes about, lives in) इति विशेषणात्मकं उपपदम् ।
  • ६-४ कुटीचरः =  one who moves, goes about, lives in a cottage

७ ब्रह्मचारी “ब्रह्मचारिन्” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ७-१ ब्रह्मणः इव चरति इति ब्रह्मचारी । = one who behaves, conducts himself as Brahma does, primarily observing all sorts of restraints.

८ कुटुम्बम् “कुटुम्ब” (= family) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

Meaning of the sentence कुटीचर: ब्रह्मचारी कुटुम्बं विसृजेत् । = A person living in a cottage and observing self-restraints should forsake his family i.e. he should forsake family-bonds and family-ties.

पात्रं विसृजेत् । पवित्रं विसृजेत् । दण्डान् लोकान् च विसृजेत्

९ पात्रम् “पात्र” (= utensil) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

१० पवित्रम् “पवित्र” (= sacred things) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

११ दण्डान् “दण्ड्” १० उ (= to punish, to regulate) इति धातुः । तस्मात् पुल्लिङ्गि नाम “दण्ड” (= stick, punishment) । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

१२ लोकान् “लोक” (= people, world) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

Overall meaning of sentence – पात्रं विसृजेत् । पवित्रं विसृजेत् । दण्डान् लोकान् च विसृजेत् = One should forsake

Notes –

  1. Since the theme of this उपनिषत् is संन्यास-विधिः it is interesting that पवित्र, दण्ड and लोक mentioned here are all three-fold.
    • On पवित्र Apte’s dictionary mentions त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः – मनुस्मृति ३-२३६
    • It is advised that संन्यास should be त्रिदण्डी – वाग्दण्डोथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ।। मनुस्मृति १२-१०
    • त्रिलोक = स्वर्ग पृथ्वी पाताल
  2. When taking meals one needs utensils पात्र also of three types, the plate, a cup for liquid items like dal and glass or cup for drinking water

ऊर्ध्वगमनं विसृजेत्
१३ ऊर्ध्वगमनम्  “ऊर्ध्वगमन” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १३-१ ऊर्ध्वं गमनम् इति ऊर्ध्वगमनम् । कर्मधारयः ।
  • १३-२ ऊर्ध्वम् (= up, upwards) इति अव्ययम् ।
  • १३-३ गमनम् “गम्” १ प (= to go) इति धातुः । तस्मात् क्रियावाचकं नपुंसकलिङ्गि नाम “गमन” (= going, act of going) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • १३-४ ऊर्ध्वगमनम् = going upwards, going to heavens

Meaning of the sentence – ऊर्ध्वगमनं विसृजेत् = One should forsake going upwards or going to heavens.

Notes –

This seems to be akin to मोक्ष-संन्यास-योग the title of the last chapter of श्रीमद्भगवद्गीता That title suggests that one should forsake all aspirations of even मोक्ष, total freedom from the bondage of the cycles of birth and death. ऊर्ध्वगमनम् विसृजेत् as advocated here seems to be akin to मोक्ष-संन्यास.

त्रिसंध्यादौ स्नानम् आचरेत् ।
१४ त्रिसंध्यादौ “त्रिसंध्यादि” इति सामासिकं विशेषणम् । अत्र सप्तमी-विभक्त्या अव्ययात्मकम् ।

  • १४-१ तिस्रः संध्याः इति त्रिसंध्याः । द्विगु-समासः ।
  • १४-२ त्रिसंध्यानां आदौ । षष्ठी-तत्पुरुषः ।
  • १४-३ तिस्रः “त्रि” (= three) इति संख्यावाचकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • १४-४ संध्याः “सम् + धि” ६ प (= to hold together, to connect, to join) ५ प (= to please, to pacify) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “संध्या” (= time of transition) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
    • संध्या also means a ritual of prayers performed at the time of transition.
  • १४-५ आदौ “आदि” (= beginning) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च । सप्तमी-विभक्त्या अव्ययात्मकम् ।
  • १४-६ त्रिसंध्यादौ =  at the beginning of the three transitions or before performing the prayers at the time of the three transitions in a day

१५ स्नानम् “स्ना” २ प (= to bathe, to cleance) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “स्नान” (= bath, act of cleansing) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१६ आचरेत् “आ + चर्” १ प (= to observe) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence त्रिसंध्यादौ स्नानम् आचरेत् । = At the beginning of the three transitions, one should take bath

Notes –

  1. Daybreak or dawn, noon and sunset or dusk or evening are known as three times of transition in a day.
  2. It is advocated here that on adopting संन्यास one should take bath, that is, one should exercise cleansing oneself, both externally and internally at the three times of transition.
    • since संध्या also means a ritual of prayers performed at the time of transition, bath स्नानम् would include not only body-bath but also prayers प्रार्थना
    • One meaning of the verb स्ना is also शुचिर्भू (शुचिः भू) to become pure, pious, to cleanse both mind and body.
    • Bath and prayers at dawn would cleanse one of the laziness from having been asleep.
    • Bath and prayers at noon would cleanse one of tiredness from work done before noon. Bath would prepare one for enjoying the lunch
    • Bath and prayers in the evening would cleanse one of tiredness from work done during the day and also from the pollution that would set in at the fall of dusk. Bath would prepare one for enjoying the dinner.
    • A part of the ritual of performing a संध्या is to make a respectful offering or oblation अर्घ्यदान Rishi’s would perform अर्घ्यदान by standing in knee-deep water at the bank of a river or stream and make a symbolic offering of a cupful of water.
  3. स्ना that is शुचिर्भू should be an आचार a code of conduct

Exercise 4 Notes
स्वाध्यायः ४ टिप्पणयः

४-१ I have been ever impressed by five namAj’s mandated in Islam and how Muslims follow it as a regime, al (= a, rather the definite article ‘the’) Qaida (= a code of conduct, a rule, an article of law, a diktat)

४-२ गुरुदेव रानडे of निंबाळ composed नित्यनेमावली which also is a compilation of prayers taken from compositions by Marathi and Kannada saints, to be sung at five times in a day (१) काकडारती prayer-songs before daybreak (२) सकाळचे भजन prayer-songs in the morning (३) दुपारचे भजन prayer-songs at noon (४) रात्रीचे भजन prayer-songs in the evening (५) शेजारती, करुणाष्टके prayer-songs before going to bed.

४-३ This paragraph 2 in आरुणेयोपनिषत् lays out the diktat of observances, which a संन्यासी has to abide by. The diktats such as पात्रं विसृजेत् । पवित्रं विसृजेत् । दण्डान् लोकान् च विसृजेत् as also त्रिसंध्यादौ स्नानम् आचरेत् sound more ritualistic.

४-४ श्रीमद्भगवद्गीता however seems to advocate संन्यासी to be a person who has cultured and cultivated his mind with  संन्यास-वृत्ति. See स संन्यासी च योगी च न निरग्निर्न चाक्रियः (६-१) तस्माद्योगी भवार्जुन (६-४६)

शुभमस्तु !

-o-O-o-

Advertisements
This entry was posted in सोपानः ४. Bookmark the permalink.

2 Responses to उपनिषदध्ययने चतुर्थः (४) सोपानः । आरुणिकोपनिषत् (1-3)

  1. Hera Moon says:

    I follow your courses with much interest and gratitude.
    One small question to apas: isn’t it plural acc. of ap, and apsu pl. loc.?

    • धन्यवादाः खलु “हेरा मून”-महोदये !
      भवत्याः सूचनां अनुसृत्य झटिति एव परिष्कृतं निम्नमिव –
      अप्सु “अप्” (= water, water-body) इति स्त्रीलिङ्गि (नित्य बहुवचनि) नाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
      अनुग्रहीतोऽस्मि ।
      सस्नेहम् ,
      अभ्यंकरकुलोत्पन्नः श्रीपादः |
      “श्रीपतेः पदयुगं स्मरणीयम् ।”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s