उपनिषदध्ययने सप्तमः (७) सोपानः । आरुणिकोपनिषत् (१-६)

उपनिषदध्ययने सप्तमः (७) सोपानः ।
आरुणिकोपनिषत् (१-६)

In studying the third paragraph in three parts, we have studied Sentences 1 to 11. Now sentences 12 to 18 in this third part. These are diktats.

॥ आरुणेयोपनिषत् ॥

खल्वहं ब्रह्मसूत्रं सूचनात्सूत्रं ब्रह्मसूत्रमहमेव विद्वांस्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखा मा गोपायोजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति । अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन हे रक्ष३ हे रक्षतो३ हे रक्षत इति ॥ ३ ॥

Closing portions of this paragraph were also seen in post 1 on आरुणिकोपनिषत्. But there are differences in this version.

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

खलु अहं ब्रह्मसूत्रं सूचनात् सूत्रं ब्रह्मसूत्रम् अहम् एव विद्वान् त्रिवृत् सूत्रं त्यजेत् विद्वान् य: एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया इति त्रि: उक्त्वा अभयं सर्वभूतेभ्य: मत्तः सर्वं प्रवर्तते । सखा मा गोपायोजः सखाय: असि इन्द्रस्य वज्र: असि वार्त्रघ्नः शर्म मे भव यत् पापं तत् निवारय इति । अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेत् औषधवत् अशनम् आचरेत् औषधवत् अशनम् प्राश्नीयात् यथालाभम् अश्नीयात् । ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन हे रक्ष३ हे रक्षत:३ हे रक्षत इति ॥ ३ ॥

Exercise 2 Paraphrase the clauses, Detail the analyses of clauses 

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु ।

  1. खलु अहं ब्रह्मसूत्रम् (अस्मि) ।
  2. सूचनात् सूत्रं ब्रह्मसूत्रम् अहम् एव (अस्मि) ।
  3. विद्वान् त्रिवृत् सूत्रं त्यजेत् ।
  4. य: एवं वेद (सः) विद्वान् (भवति) ।
  5. संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया इति त्रि: उक्त्वा सर्वभूतेभ्य: अभयं (भवेत्) ।
  6. मत्तः सर्वं प्रवर्तते ।
  7. सखा मा गोपायोजः सखाय: असि ।
  8. इन्द्रस्य वज्र: असि ।
  9. वार्त्रघ्नः शर्म मे भव ।
  10. यत् पापं तत् निवारय ।
  11. इति ।
  12. अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेत् । Studied partly earlier in तृतीयः (३) सोपानः .
  13. औषधवत् अशनम् आचरेत् । – Studied earlier in द्वितीयः (२) सोपानः (2).
  14. औषधवत् अशनम् प्राश्नीयात् ।
  15. यथालाभम् अश्नीयात् । 
  16. ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन हे रक्षते३  । – Studied earlier in द्वितीयः (२) सोपानः (2).
  17. हे रक्षत:३ हे रक्षत । – Studied earlier in द्वितीयः (२) सोपानः (2).
  18. इति । – Studied earlier in द्वितीयः (२) सोपानः (2).

There seem to be sections within this paragraph.

  1. Sentences 1 to 6 are are for internalization of some universal concepts.
  2. Sentences 7 to 11 are prayers
  3. Sentences 12 to 18 are diktats.

When studying this paragraph by these groups, sentences 12 to 18 to be studied here are –

  1. (संन्यासी) अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेत् । Studied partly earlier in तृतीयः (३) सोपानः .
  2. (संन्यासी) औषधवत् अशनम् आचरेत् । – Studied earlier in द्वितीयः (२) सोपानः (2).
  3. (संन्यासी) औषधवत् अशनम् प्राश्नीयात् ।
  4. (संन्यासी) यथालाभम् अश्नीयात् ।
  5. ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन हे रक्षत३  । – Studied earlier in द्वितीयः (२) सोपानः (2).
  6. हे रक्षत:३ हे रक्षत । – Studied earlier in द्वितीयः (२) सोपानः (2).
  7. इति ।

As noted, some of the sentences have been studied earlier. For ease of reference and reading those studies will be reproduced here.

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,
इतरे शब्दाः
क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
१ अ अनेन मन्त्रेण कृतं गौणः
१ आ (संन्यासी) वैणवं दण्डं कौपीनं परिग्रहेत् प्रधान:
(संन्यासी) अशनम् औषधवत् आचरेत् प्रधान:
 (संन्यासी) अशनम् औषधवत् प्राश्नीयात् प्रधान:
(संन्यासी) यथालाभम् अश्नीयात् प्रधान:
हे (संन्यासि) (त्वम्)
ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन रक्षत प्रधान:

Exercise 3 Decipher the compound words, and detail grammatical analysis of all words स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

Considering sentence by sentence, excluding words, which are commonly known and/or are studied earlier.

(संन्यासी) अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेत् ।

१ संन्यासी “सम् + नि + अस्” २ प (= to put down, to renounce) इति धातुः । तस्मात् विशेषणम् “संन्यासिन्” (= renunciation) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२ मन्त्रेण “मन्त्र” (= a sacred text or prayer) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।

३ कृतम् “कृ” इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “कृत” (= done) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-१ कृ इति तन्वादि अनिट् उभयपदी धातुः “डुकृञ् करणे” (= to do) ।
  • ३-२ मन्त्रेण कृतम् = done with a sacred prayer, sanctified

४ वैणवम् “वैणव” (= of bamboo) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

५ दण्डम् “दण्ड” (= staff, stick) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

६ कौपीनम् “कौपीन” (= piece of rag which would cover just the private parts) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।७ परिग्रहेत् “परि + ग्रह्” ९ उ (= to accept, to receive, to take, to wear, to carry) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

Overall meaning of (संन्यासी) अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेत् = A mendicant should bear a bamboo staff sanctified by prayers and also a piece of rag to cover the private parts

(संन्यासी) औषधवत् अशनम् आचरेत् ।

८ औषधवत् (= औषध + वत्) इति तद्धितं विशेषणम् । अत्र क्रियाविशेषणात्मकम् ।

  • ८-१ औषधवत् = यथा औषधं तथा = यथा औषधस्य मात्रा तथावदेव = In the same measure as of a medicament
  • ८-२ औषधम् “औषध” (= medicament) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

९ अशनम् “अश्” ५ आ (= to eat, to consume) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “अशन” (= eating, consumption) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१० आचरेत् “आ + चर्” १ प (= to conduct oneself) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
Overall meaning of (संन्यासी) औषधवत् अशनम् आचरेत् = should observe eating food as one takes a medicament.

(संन्यासी) औषधवत् अशनम् प्राश्नीयात् ।

११ प्राश्नीयात् “प्र + आ + अश्” इति (= to consume, to take in, to eat) धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

  • ११-१ “अश्” इति स्वादि (५) सेट् परस्मैपदी धातुः । “अश भोजने” (= to consume, to take in, to eat)

Overall meaning of (संन्यासी) औषधवत् अशनम् प्राश्नीयात् = should eat food as one takes a medicament.

(संन्यासी) यथालाभम् अश्नीयात् ।

१२ यथालाभम् इति अव्ययात्मकं सामासिकं विशेषणम् ।

  • १२-१ यथा लाभः भवति तथा इति यथालाभम् । अव्ययीभाव-समासः ।
  • १२-२ लाभः “लभ्” इति भ्वादि अनिट् आत्मनेपदी धातुः । “डुलभश् प्राप्तौ” (= to obtain, to get)
  • १२-३ यथालाभम् = as obtaining

Overall meaning of (संन्यासी) यथालाभम् अश्नीयात् = One should eat as obtaining.

ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन हे रक्षत ।

१३ ब्रह्मचर्यम् “ब्रह्मचर्य” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १३-१ यथा ब्रह्मणा चर्यते तथा आचारः ब्रह्मचर्यम् = Conduct as is exemplified by Brahma

१४ अहिंसाम् “अहिंसा” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १४-१ न हिंसा इति अहिंसा । नञ्-तत्पुरुषः ।
  • १४-२ हिंसा “हिंस्” ७ प १० उ (= to hurt) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “हिंसा” (= hurt) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४-३ अहिंसा = non-violence

१५ अपरिग्रहम् “अपरिग्रह” इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १५-१ न परिग्रहः इति अपरिग्रहः । नञ्-तत्पुरुषः ।
  • १५-२ परिग्रहः “परि + गृह्” ९ उ (= to get involved) इति धातुः । तस्मात् पुल्लिङ्गि नाम “परिग्रह” (= involvement, engulfment) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १५-३ अपरिग्रहः = non-involvement

१६ सत्यम् “सत्य” इति तद्धितं नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • १६-१ सत्य “अस्” २ प (= to be, to exist) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् “सत्य” (= truth) ।

१७ यत्नेन “यत्” १ आ (= to try, to strive for) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “यत्न” (= effort) । तस्य तृतीया विभक्तिः एकवचनम् च ।
१८ हे (= hey) इति अव्ययम् ।
१९ रक्षतः “रक्ष्” १ प (= to protect, to preserve) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे द्विवचनम् ।
२० रक्षत “रक्ष्” १ प (= to protect, to preserve) इति धातुः । तस्य आज्ञार्थे मध्यम- (द्वितीय-) पुरुषे बहुवचनम् ।

Overall meaning of ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन हे रक्षत = preserve with efforts (with intent and determination) celibacy, non-violence, non-adulteration and truth.

२१ इति (= thus ends, here ends) अव्ययम् ।

Exercise 4 Notes
स्वाध्यायः ४ टिप्पणयः

४-१ There are three sentences about अशनम्

  1. औषधवत् अशनम् आचरेत्
  2. औषधवत् अशनम् प्राश्नीयात्
  3. यथालाभम् अश्नीयात्
  • There does not seem to be much difference between (1) and (2), except for the verbs being आचरेत् and प्राश्नीयात्
  • In sentences (2) and (3) the verbs have same meaning but the contents and imports are different.
  • The phrase यथालाभम् is interesting. A संन्यासी is not supposed to have any facility to cook food. And he would get food by भिक्षा. So, यथालाभम् meaning ‘as obtaining’ would mean cooked or uncooked, as obtaining ! Since यथालाभम् means ‘as obtaining’, it also means not to yearn for too much. Apart from the diktat that a संन्यासी is not supposed to have any facility to cook food, he is also not supposed to have any facility for storing food. If does not get any भिक्षा, he is supposed to be ready to go without a meal. संन्यासी-s would often be going from place to place. They are not supposed to stay at any place longer than a couple of days. Such are the diktats, particularly in Jainism. One can often see at many places across India Jain संन्यासी-s walking along, especially in early morning hours going to their next halt, often at a देरासर.

४-२ Looks like many diktats for Jain संन्यासी-s are adopted from this आरुणेयोपनिषत् !

शुभमस्तु !

-o-O-o-

Advertisements
This entry was posted in सोपानः ७. Bookmark the permalink.

One Response to उपनिषदध्ययने सप्तमः (७) सोपानः । आरुणिकोपनिषत् (१-६)

  1. You write: Overall meaning of ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन हे रक्षत = preserve with efforts (with intent and determination) celibacy, non-violence, non-adulteration and truth. Here
    अपरिग्रहं is translated as ‘non-adulteration.’ This is a novel interpretation because the usual practice is to render aparigraha as ‘non-hoarding.’

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s